Posts

गीर्वाण ज्ञानेश्वरी - प्रथमोऽध्यायः

॥  श्री गणेशाय नमः  ॥  श्रीसरस्वत्यै नमः  ॥  श्री गुरुभ्यो नमः  ॥   ॥  गीर्वाण ज्ञानेश्वरी ॥  प्रथमोऽध्यायः  ॐ नमस्ते समस्ताद्य निगमप्रतिपादित जय जय स्वसंवेद्य आत्मरूप नमो नमः  ॥ १ ॥ त्वं गणेशः स्वयं देव सर्वार्थमतिभास्कर निवृत्तिगुरुशिष्यस्य मदुक्तिह्यवधार्यताम्  ॥ २ ॥ अशेषशब्दब्रह्मैव मूर्तिः साच सुवेषिणी कान्तिर्विलसते यत्र निर्दोषवर्णभास्वरा  ॥ ३ ॥ स्मृतिरेव तद्‌गात्रं तद्‌भावा हि मनोहराः अर्थशोभाप्रकारेण लावण्यनिधिरेव सा  ॥ ४ ॥ अष्टादशपुराणानि मणयोभूषितानि तु प्रमेयाख्यानि रत्नानि प्रविष्टानि पदे पदे  ॥ ५ ॥ पद्यात्मकं निबन्धं तदम्बरं रागरञ्जितम् साहित्यरूपं तद्वानं सपूरं सुन्दरं प्रभम्  ॥ ६ ॥ काव्यनाट्यस्वरूपेण यन्निर्धारिव कौतुकम् अर्थात्मकेन ध्वनिना जल्पन्ती क्षुद्रघण्टिकाः  ॥ ७ ॥ निपुणत्वेन दृष्टानि प्रमेयानि च सर्वतः रत्नाकारेण शोभन्ते योग्यानि तु पदानि च  ॥ ८ ॥ मतिरूपा मेखला सा व्यासादीनां च शोभते निर्दोषत्वेन भासन्ती वस्त्रान्तेन प्रसारिता  ॥ ९ ॥ षड्दर्शनानि शास्त्राणि भुजरू...
Recent posts