॥ श्री गणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्री गुरुभ्यो नमः ॥
॥ गीर्वाण ज्ञानेश्वरी ॥
प्रथमोऽध्यायः
ॐ नमस्ते समस्ताद्य निगमप्रतिपादित
जय जय स्वसंवेद्य आत्मरूप नमो नमः ॥ १ ॥
त्वं गणेशः स्वयं देव सर्वार्थमतिभास्कर
निवृत्तिगुरुशिष्यस्य मदुक्तिह्यवधार्यताम् ॥ २ ॥
अशेषशब्दब्रह्मैव मूर्तिः साच सुवेषिणी
कान्तिर्विलसते यत्र निर्दोषवर्णभास्वरा ॥ ३ ॥
स्मृतिरेव तद्गात्रं तद्भावा हि मनोहराः
अर्थशोभाप्रकारेण लावण्यनिधिरेव सा ॥ ४ ॥
अष्टादशपुराणानि मणयोभूषितानि तु
प्रमेयाख्यानि रत्नानि प्रविष्टानि पदे पदे ॥ ५ ॥
पद्यात्मकं निबन्धं तदम्बरं रागरञ्जितम्
साहित्यरूपं तद्वानं सपूरं सुन्दरं प्रभम् ॥ ६ ॥
काव्यनाट्यस्वरूपेण यन्निर्धारिव कौतुकम्
अर्थात्मकेन ध्वनिना जल्पन्ती क्षुद्रघण्टिकाः ॥ ७ ॥
निपुणत्वेन दृष्टानि प्रमेयानि च सर्वतः
रत्नाकारेण शोभन्ते योग्यानि तु पदानि च ॥ ८ ॥
मतिरूपा मेखला सा व्यासादीनां च शोभते
निर्दोषत्वेन भासन्ती वस्त्रान्तेन प्रसारिता ॥ ९ ॥
षड्दर्शनानि शास्त्राणि भुजरूपाणि तानि तु ।
विसंवादस्वरूपाणि आयुधानि करेषु ते ॥ १० ॥
परशुस्तकरूपाणि त्वङ्कुशो नीतिभेदकः
महारसो हि वेदान्तो मोदकस्तत्र राजते ॥ ११ ॥
बौद्धानां समयो भग्नो ह्येकदन्तो धृतः करे
स्वभावतो दूष्यमाणो वार्तिकारैः विचक्षणैः ॥ १२ ॥
सतर्कवादा सहजः पद्महस्तो वरप्रदः
धर्मप्रतिष्ठारूपोऽयं सिद्धिदोऽभयहस्तकः ॥ १३ ॥
निर्मलः सुविचारो यः शुण्डादन्डेन भासते
केवलः परमानन्द ऋजुरूपेण तिष्ठति ॥ १४ ॥
ज्ञानरूपेण स्फुरणं विघ्नराजस्य लोचनम्
सरलः शुभ्रवर्णो यः दन्तसंवाद एव सः ॥ १५ ॥
मीमांसाद्वयं मामन्ये श्रवणस्थानमेव तत्
बोधामृतमदो यत्र मुनिभिः सेव्यतेऽलिभिः ॥ १६ ॥
प्रमेयाख्य प्रवालस्य सुप्रभा द्योतते खलु
कुम्भस्थलं ह्युदाराख्यं द्वैताद्वैतमिभस्य तु ॥ १७ ॥
दशोपनिषदस्तत्र कुसुमत्वेन कल्पिताः
प्रज्ञानमकरन्दस्तु भालस्योपरि शोभते ॥ १८ ॥
अकार पादयुग्मं तु उकार उदरात्मकः
मकारो मस्तकाकारो महामण्डलमेव तत् ॥ १९ ॥
ते वर्णा यत्र मिलिता ॐकारः स उदाहृतेः
ॐकारेणान्विता विश्वं वाङ्मयं समुदाहृतम् ॥ २० ॥
श्री शारदां देवीं वन्दे नूतना वाग्विलासिनीम्
चातुर्येण कलाभिश्च कान्तां तु विश्वमोहिनीम् ॥ २१ ॥
यस्तारयति संसार हृदि तिष्ठति सद्गुरुः
तत्प्रेरणाद्विवेके तु विशेषो ह्यादरो मम ॥ २२ ॥
यस्य नेत्रे सुसंयुक्ते ज्ञानाञ्जनशलाकया
प्रत्यक्षं जायते तस्य ह्यन्तर्गतमहानिधिः ॥ २३ ॥
चिन्तामणिः करे यस्य यथापूर्ण मनोरथः
तथैवाहं ज्ञानदेवः श्रीनिवृत्तिकृपाबलात् ॥२४॥
शाखापल्लवसन्तोषो यथा मूलनिषेचनात्
तथा भजन् गुरून् प्राज्ञः कृतकार्यो भवेदिति ॥२५॥
समुद्रस्नानमात्रं तु त्रिलोकीतीर्थगं यथा
अमृतास्वादनेनैव परिपूर्णा यथा रसाः ॥ २६ ॥
तथाभिवन्दिताः साक्षाद्गुरवस्ते पुनःपुनः
ये ह्यभीष्टप्रदाः कामान्पूरयन्ति मनोगतान् ॥ २७ ॥
जननी कौतुकानां तां शृण्वन्तु गहनां कथाम्
किमिवाभिनवोद्यानं सद्विवेकतरुस्थलम् ॥२८॥
किं वा सर्वसुखारम्भा यः प्रमेयमहानिधिः
सुधाब्धिः परिपूर्णः किं नानानवरसात्मकः ॥ २९ ॥
प्रकाशकं परन्धाम सर्वविद्याजनुस्थलम्
अशेषशास्त्रजातस्य निवासस्थानमुच्यते ॥३०॥
किं वा सकलधर्माणां गृहं सज्जनजीवनम्
लावण्यरत्नभाण्डारं शारदायास्तथैव च ॥ ३१ ॥
त्रैलोक्यप्रकटीभूता कथारूपा च भारती
महामतिं समाविश्य व्यासनारायणस्य तु ॥ ३२ ॥
तस्मात्काव्येषु राजाऽयं ग्रन्थगौरवसुस्थलम्
रसानां सुरसो यस्माज्जायते सरसोत्तमः ॥ ३३ ॥
इदमन्यच्छ्रुतं भूयाच्छब्दश्रीः शास्त्रतां गता
यस्मात्कोमलतां याता महाबोधप्रकाशिका ॥ ३४ ॥
चातुर्यं कुशलं जातं प्रमेयं रुचिरं नवम्
सौभाग्यं वर्धते यत्र सुखस्य सहजं पुनः ॥ ३५ ॥
मधुरत्वस्य माधुर्यं शृङ्गारस्य सुभूषणम्
उचितस्य तु प्रेयस्त्वं बहुरूपेण शोभते ॥ ३६ ॥
कलाः कुशलतां याताः पुण्यं बहुप्रतापवान्
जनमेजयदोषाणां हरणं तत्कथामृतम् ॥ ३७ ॥
क्षणं वा पश्यतो रङ्गाः सविशेष सुरङ्गताम्
गुणाः सगुणसामर्थ्यं बहुलं प्राप्नुवंस्ततः ॥ ३८ ॥
सवितस्तेजसा सर्वं त्रैलोक्यं भ्राजते यथा
उदगाद्व्यासमतितः कथा तद्वत्प्रकाशते ॥ ३९ ॥
उप्तं बीजं शुभे क्षेत्रे विस्तीर्णं जायते स्वतः
अर्थजातं तथैवात्र भारते वर्धतेतराम् ॥ ४० ॥
अन्तर्वासाद्भवत्येव नगरे नागरो यथा
व्यासोक्तित्वेन सञ्जातं तथा ज्ञानमयं जगत् ॥ ४१ ॥
प्रथमे वयसि प्राप्तं लावण्यं तच्च नूतनम्
प्रकटं यौवनाद्याति ह्यङ्गनाङ्गे विशेषतः ॥ ४२ ॥
वसन्तसमये प्राप्ते वनशोभाकरप्रभम्
प्रफुल्लतां यथोद्यानं सम्प्राप्नोति विशेषतः ॥ ४३ ॥
घनीभूतं सुवर्णं तदस्ति साधारणं यथा
नानालङ्काररूपेण सुस्वरूपं विशेषतः ॥ ४४ ॥
इहशोभा मनुप्राप्तां व्यासोक्त्या समलङ्कृताम्
इतिहासैरिमान्दृष्ट्वा कृता किं नु कथाश्रया ॥ ४५ ॥
आत्मनो मानलाभार्थं न्यूनत्वेन च भारते
आख्यानरूपं जगति पुराणानां प्रकाशनम् ॥ ४६ ॥
यद्भारते नास्ति तद्वै त्रैलोक्येऽपि न वर्तते
तस्मात् प्रसिद्धं सर्वत्र व्यासोच्छिष्ठं जगत्रयम् ॥ ४७ ॥
जननीं परमार्थानां प्रसिद्धां सुरसां कथाम्
नृपनाथं मुनिः साक्षादुवाच जनमेजयम् ॥ ४८ ॥
उत्तमं ह्यद्वितीयं यत्पवित्रैकं निरूपमम्
परमं मङ्गलं धाम श्रुणुत तत्कथामृतम् ॥ ४९ ॥
अयं परागो गीताख्यो महाभारतपङकजे
प्रसङ्गाद्यं च श्रीरङ्गो ह्यर्जुनं प्रत्यबोधयत् ॥ ५० ॥
किं वा वेदसमुद्रोऽयं व्यासबुद्ध्या सुलोडितः
नवनीतं च गीताख्यं तस्मात्प्रादुरभूत्किल ॥ ५१ ॥
तच्च ज्ञानाग्निसम्पर्काद्विवेकपरिपाकतः
नवं च रुचिरं त्वाज्यमामोदत्वं ययुस्ततः ॥ ५२ ॥
अपेक्षन्ते विरक्ता यत्सेवन्ते साधवः सदा
रमन्ते यत्र ब्रह्मज्ञाः सोऽहंभावपराङ्गताः ॥ ५३ ॥
त्रैलोक्ये प्रथमा वन्द्या श्रवणीया सुभक्तिकैः
सुसङ्गता तथा गीता कथिता भीष्मपर्वणि ॥ ५४ ॥
तां वन्दे भगवद्गीतां ब्रह्मेशाभ्यां प्रशंसिताम्
अत्यादरेण सेवन्ते यां सदा सनकादयः ॥ ५५ ॥
शरच्चन्द्रकलायां तु शनैः मृदुसुधाकणान्
चिन्वन्ति शुद्धचित्तेन चकोराणां च शावकाः ॥ ५६ ॥
अनुभुञ्जन्तु श्रोतारः तथैवेतत्कथामृतम्
अणुरूपेण मनसा शनैः कृत्वा हृदिस्थितम् ॥ ५७ ॥
अशब्दो ह्यत्र संवाद इन्द्रियातीतसङ्गमः
श्रुतात्पूर्वं प्रमेयानां तद्रहस्यं विबुध्यते ॥ ५८ ॥
न जानातीह कमलं परागं स्वस्थितं यथा
तद्विद्वान्भ्रमरोह्यत्तितद्वद्ग्रन्थो निषेव्यताम् ॥ ५९ ॥
स्वस्थाने संस्थिता ह्येषा चन्द्रस्याभ्युदयात्सुखम्
अनुरागयुता भुङ्क्ते स्फुरं कुमुदिनी यथा ॥ ६० ॥
गाम्भिर्यात् सुस्थिरा यस्य ह्यन्तःकरणवृत्तयः
सुसम्पन्नः स एवास्य रहस्यं वेत्ति तत्वतः ॥ ६१ ॥
येत्वर्जुनसमा पाङ्क्त्याः येषां श्रवणयोग्यता
ते साधवः कृपापूर्णाः पिबन्तु रसमुत्तमम् ॥ ६ ॥
त्वदीयं हृदयं निम्न मतो मे विनतिः प्रभो
निवेदनं ते मित्रत्वात्पादवन्दनपूर्वकम् ॥ ६३ ॥
पितृमातृस्वभावोऽयं सन्तोषो जायतेऽधिक:
अपत्यस्य समाकर्ण्य वाणीमस्फुटसुन्दरम् ॥ ६४ ॥
अङ्गीकृतोऽहं युष्माभिः सज्जनैरात्मसात्कृतः
तस्मान्यूनं च क्षन्तव्यं सहजं प्रार्थनां विना ॥ ६५ ॥
गीतार्थं वक्तुकामोऽस्मि ह्यपराधोऽस्ति चापरः
तस्यावलोकनविधौ विज्ञप्तिश्च मया कृता ॥ ६६ ॥
अशक्यमित्यविज्ञाय धाष्टयं मे मनसा कृतम्
अतिक्रामति खद्योतः किं भानु स्वेन तेजसा ॥ ६७ ॥
टिट्टिभिः कुरुते चञ्च्वा सागरस्य परिच्छिदम्
तथैवाहं प्रवृत्तोऽस्मि ह्येतद्ग्रन्थविचारणे ॥ ६८ ॥
आकाशं परिमातुं यः प्रयतेत ततोऽधिकः
भवेत्तच्च यथाऽशक्यं तथा निर्धारणं मम ॥ ६९ ॥
शम्भुर्विचारयामास गीताया ह्यर्थगौरवम्
तदा सुविस्मिता गौरी प्रश्नमेनं चकार ह ॥ ७० ॥
तामुवाच हरो देवि स्वरूपं ते यथा नवम्
गीतातत्वं तथाऽज्ञेयमपारं नित्यनूतनम् ॥ ७१ ॥
निद्रायां श्वासरूपेण जातो वेदार्थसागरः
सर्वेश्वरः स्वयं साक्षादवादीज्जागरेऽर्जुनम् ॥ ७२ ॥
तथाऽगाधमिदं यत्र वेदानां स्तम्भिता मतिः
अल्पस्य मतिमन्दस्य वर्णने का कथा मम ॥ ७३ ॥
अपारं तत्कथं पारं भवेत्तेजस्तमुज्ज्वलम्
गगनं मशकस्येव कथं मुष्टिगतं भवेत् ॥ ७४ ॥
श्रीगुरुस्सानुकूलोऽत्र चाऽधारः केवलं मम
धृतिमांश्च तदुक्त्यैव ज्ञानदेवो वदाम्यहम् ॥ ७५ ॥
अविवेकी च मूर्योऽहं यद्यपि स्यां तथापि तु
साधूनां च कृपादीपः सोज्वलो मे प्रकाशकः ॥ ७६ ॥
स्पर्शस्यैव हि सामर्थ्य यल्लोहः कनकं व्रजेत्
अमृतस्यैव सा सिद्धिर्लभते जीवनं मृतः ॥ ७७ ॥
मूकं करोति वाचालं येन सिद्धा सरस्वती अहो
किमेतदाश्चर्यं वस्तुसामर्थ्यमीदृशम् ॥ ७८ ॥
माता कामदुघा यस्य तस्यास्ति किमु दुर्लभम् ।
तस्मादहं प्रवृत्तोऽस्मि चिकीर्षुर्ग्रन्थसङ्ग्रहम् ॥ ७९ ॥
न्यूनं सम्पूर्णतां यातु यत्किञ्चिदधिकं मतम्
तत्सर्वं त्यजतामेवमेषा वो विनतिर्मम ॥ ८० ॥
दीयतामवधानं मे युष्मदुक्त्या वदाम्यहम्
सूत्राधीनं दारुयन्त्रं चेष्टते तु यथा तथा ॥ ८१ ॥
सतामनुग्रहीतोऽहं तदाऽज्ञाधारकः सदा
अलं कुर्वन्तु ते सन्तो यथेष्टं मे विधीयताम् ॥ ८२ ॥
उवाच श्रीगुरुस्तं (वै) चालं ते बहुभाषया
ग्रन्थस्यारम्भणे चित्तं सत्वरं देहि भो इति ॥ ८३ ॥
तच्छ्रुत्वा ज्ञानदेवोऽभूदतिसन्तुष्टमानसः
एतद्ग्रन्थस्य भावार्थं श्रूयतां स्वस्थमानसैः ॥ ८४ ॥
धृतराष्ट्र उवाच -
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः
मामकाः पाण्डवाश्चैव किमकुर्वत सन्जय ॥ १ ॥
धृतराष्ट्रस्तदोवाच पुत्रस्नेहेन मोहितः
कुरुक्षेत्रस्य वृत्तान्तं मां निवेदय सञ्जय ॥ ८५ ॥
ख्यातं धर्मालयं यच्च भूलोके तु विशेषतः
मत्पुत्राः पाण्डुपुत्राश्च गता युद्धनिमित्ततः ॥ ८६ ॥
एतावत्कालपर्यन्तं ते सर्वे च परस्परम्
किमारभन्त तत्रस्थाः तन्मे कथय सत्वरम् ॥ ८७ ॥
सञ्जय उवाच -
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ २ ॥
पश्यैतां पाण्डुपुत्राणामाचार्य महती चमूम्
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥
उवाच सञ्जयः सोऽथ महाप्रलयकालिकम्
कृतान्तमुखमेवेति क्षुब्धं पाण्डवतोन्यकम् ॥ ८८ ॥
एकत्रघनसन्नद्धं सहसैव समुत्थितम्
कालकूटमिवोच्छिक्तं को नु तद्धारणे क्षमः ॥ ८९ ॥
किं वा प्रलयवातेन प्रवृद्धो वडवानलः
प्रशोष्य सागरं तिष्टन्नम्बरान्तं प्रधावति ॥ ९० ॥
तथा भयानकं भातं बलं चैव सुदुर्धरम्
नानाव्यूहसमारूढं तस्मिन्काले तु सर्वशः ॥ ९१ ॥
समीक्ष्य तद्बलं सम्यगवमेने तदा नृपः
गजयूथं वने पश्यन् सिंहो नागणयद्यथा ॥ ९२ ॥
तदा द्रोणमुपागम्य राजा वचनमब्रवीत्
आचार्य पाण्डवानां त्वं पश्य क्षुब्धां वरूथिनीम् ॥ १३ ॥
गिरिदुर्गमिवाभाति सञ्चलद्व्यूहसम्भवः
द्रुपदस्य कुमारेण रचितो धीमता तदा ॥ ९४ ॥
यस्त्वयाध्यापितः शिष्यो विद्यायां पूर्णतां गतः
तेन सैन्यसमुद्रोऽयं विस्तीर्णो दृश्यतां त्वया ॥ ९५ ॥
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥
शस्त्रास्त्रेषु प्रवीणाऽ येऽसाधारणपराक्रमाः
निपुणाः क्षात्रधर्मेषु तिष्ठन्ति च महाबलाः ॥ ९६ ॥
भीमार्जुनसमं येषां योग्यता बलमेव च
पौरुषं कौतुकात्के ते प्रसङ्गात्कथ्यते मया ॥ ९७ ॥
युयुधानो महावीरो विराटश्च महारथः वीरश्रेष्ठश्च द्रुपदस्ते योद्धुं समुपागताः ॥ ९८ ॥
धृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान्
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥
धृष्टकेतुश्चेकितान काशीराजः पराक्रमी
उत्तमौजा नृपश्रेष्ठः शैबाख्यः पुरुषर्षभः ॥ १९ ॥
अयं हि कुन्तिभोजाख्यो युधामन्युस्तथागतः
पुरुजित्प्रमुखाः सर्वे तान्सम्पश्य द्विजोत्तम ॥ १०० ॥
अन्यो नवार्जुनो ह्येषः सुभद्राहृदयप्रियः
अभिमन्युश्च तं द्रोण पश्यत्विति नृपोऽब्रवीत् ॥ १०१ ॥
पुनः कुमारा द्रौपद्यास्ते सर्वे च महारथः
सन्ति वीरा ह्यगणिता अपारा मिलितास्तथा ॥ १०२ ॥
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ ७ ॥
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८ ॥
अथापि मम सैन्ये तु क्षुण्णवीराश्च नायकाः
तान्प्रसङ्गानुरोधेन कथयाम्यवधार्यताम् ॥ १०३ ॥
भवानन्ये च ये वीराः प्रमुखा मम सैन्यके
तेषां दिग्दर्शनार्थाय नामानि कथयामि ते ॥ १०४ ॥
अयं भीष्मस्तु गाङ्गेयः प्रतापो ह्यंशुमान्निव
रिपुरूपगजानां तु कर्णः पञ्चाननो मतः ॥ १०५ ॥
एकैकोऽपि मनोयोगाद्विश्वसंहरणे क्षमः
एक एव कृपाचार्यो न किं संहरणे क्षमः ॥ १०६ ॥
अत्र वीरो विकर्णश्च ह्यश्वत्थामा पुरस्थितः
यस्माद्बिभेति प्रत्यक्षः कृतान्तो मनसापि हि ॥ १०७ ॥
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः
नानाशस्त्र प्रहरणा: सर्वे युद्धविशारदः ॥ ९ ॥
समितिञ्जयः सौमदत्तिर्बहवोऽन्ये नृपास्तथा
येषां बलप्रमाणं तु जानात्यात्मभूरपि ॥ १०८ ॥
ये शस्त्रविद्यानिपुणा मन्त्राणां मूर्तयस्तु ये
यदस्त्रजातं जगति तत्प्रकाशमभूदत्तः ॥ १०९ ॥
ये सामान्यबला लोके परिपूर्णप्रतापिन:
ते सर्वे मद्गतप्राणाः सम्प्राप्ता नरपुङ्गवाः ॥ ११० ॥
यथा पतिव्रता चित्तं न भ्राम्यति पतिं विना
तथा तेषां सुवीराणां जीवनं मयि संस्थितम् ॥ १११ ॥
स्वामिभक्ताश्च निःसीमा निर्दोषाः सर्वतश्च ये
तेषां मत्कार्यसिद्ध्यर्थमल्पीभूतं हि जीवनम् ॥ ११२ ॥
आयोधनकलाभिज्ञाः क्षात्रनीतिप्रवर्तकाः
तेभ्यः प्रवर्तितं युद्धकीर्तिकौशल्यजीवनम् ॥ ११३ ॥
एवं हि सर्वतः पूर्णा वीराः सन्ति च मद्बले
अपारत्वेन गणनां कथं नु क्रियते त्वियम् ॥ ११४ ॥
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥
अथापि क्षत्रियश्रेष्ठः सर्वजिज्जगतीतले
भीष्माचार्यः सुवीरोऽयं सेनापत्ये नियोजितः ॥ ११५ ॥
एतद्बलसमायोगाद्रचितं दुर्गसन्निभम्
मम सैन्यमिवाभातं यतो लोकत्रयं लघु ॥ ११६ ॥
समुद्रो दुर्विलङ्घ्यो हि केनचिच्च स्वभावतः
वडवाग्निसहायेन यदि युक्तो भवेद्यथा ॥ ११७ ॥
यथा वा प्रलयाग्निश्च महावातेन संयुतः
तथाभूतस्तु गाङ्गेयः सेनापत्ये प्रतिष्ठितः ॥ ११८ ॥
को नु योद्धा भवेदस्य सैन्यस्य पुरतः स्थितः
पाण्डवानां बलं स्वल्पं रच्यते तु विशेषतः ॥ ११९ ॥
बलिष्टो भीमसेनोऽयं सेनाया रक्षणे स्थितः
इति दुर्योधनो द्रोणमुक्त्वा तूष्णीं बभूव ह ॥ १२० ॥
अयनेषु च सर्वेषु यथाभागमवस्थिता
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एवहि ॥ ११ ॥
अब्रवीत्पुनरेवं सः सकलान्सैनिकानिति
स्वं स्वं स्थानं प्रतीक्षध्वं सन्नद्धा युद्धकर्मणि ॥ १२१ ॥
यावदक्षौहिणी सेना येषां स्वाधीनता कृता
महारथानां वशगा ते रक्ष्यन्त्विति तद्बलम् ॥ १२२ ॥
स्वं स्वं सैन्यं प्रतिष्ठाप्य भीष्माज्ञां पालय त्विति
ततो राजाऽवदद् द्रोणं यूयं सर्वे व्यवस्थिताः ॥ १२३ ॥
एकमेवाभिरक्षन्तु पश्यन्त्वेनं च मामिव
अस्मत्सकलसैन्यस्य ह्याधारस्तम्भ एव सः ॥ १२४ ॥
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः
सिंहनादं विनद्योच्चैः शखं दध्मौ प्रतापवान् ॥ १२ ॥
इति राजवचः श्रुत्वा बहुसन्तुष्टमानसाः
सेनापतिः सिंहनादं चकार तदनन्तरम् ॥ १२५ ॥
गर्जनं चाद्भुतमन्तर्गतं चोभयसैन्यके ।
न माति गगने यस्मात्समुत्पन्नः प्रतिध्वनिः ॥ १२६ ॥
तद्ध्वनौ सम्प्रवृत्ते तु वीरवृत्या प्रचोदितः ।
भीष्मदेवो प्रध्मौ स्वं दिव्यं शङ्ख प्रतापवान् ॥ १२७ ॥
तद्ध्वनिद्वयसंयोगे बधिरं तु जगत् त्रयम्
भूतले पतितः किन्नुह्याकाशस्त्रुटितस्तदा ॥ १२८ ॥
आकाशे निबिडश्शब्दो ह्युद्केलस्सागरस्तदा
क्षुब्धं चराचरं विश्वं कम्पितं चैव तिष्ठति ॥ १२९ ॥
तन्महाघोरशब्देन ध्वनितं गिरिकन्दरं
सहसैवाभ्यहन्यन्त रणभेर्यस्तदा बले ॥ १३० ॥
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥
सङ्घस्य विविधः शब्दो ह्यजस्रं भीतिदायकः
महाप्रलयवर्तीव शूराणामथभूत्तदा ॥ १३१ ॥
भेरीशङ्खादि वाद्यानां वीराणां गर्जनं तथा
युद्धे कोलाहलः शब्दो ह्यासीत्तत्र भयानकः ॥ १३२ ॥
भुजौ सन्ताड्य रोषेण चाव्हयन्ति परस्परम्
प्रमत्ताभद्रमातङ्गा नाधीनाश्चाभवंस्तदा ॥ १३३ ॥
वार्ता किमत्र भीरुणामधीरास्ते तृणीकृता
अस्माद्भीतः कृतान्तस्तु न तत्र कुरुते मुखम् ॥ १३४ ॥
तिष्ठतां हि गताः प्राणा लग्नदन्ताश्च केचन
ये के चापि महावीराः प्रसिद्धाः कम्पितास्तदा ॥ १३५ ॥
अस्याद्भुतेन घोषेण व्याकुलोऽभूत्पितामहः
देवा ऊचुः किमद्यैव प्रलयोऽनुसमागतः ॥ १३६ ॥
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु ॥ १४ ॥
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १५ ॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥
इत्थं स्वर्गीयलोकानामुद्विग्ने सम्भवे सति
पाण्डवानां च सैन्येऽस्मिन् किं भूतं पश्य सत्वरम् ॥ १३७ ॥
विजयस्य निजसारं महतां तेजसन्निभिः
चतुर्भिरश्वैः संयुक्तं गरुत्मानिव तीव्रगैः ॥ १३८ ॥
पक्षयुक्तो यथा मेरुः शोभमानो रथस्तथा
तस्य तेजः प्रसारेण दीप्यमाना दिशो दश ॥ १३९ ॥
यद्रथे सारथिः साक्षाद्वैकुण्ठाधिपतिः प्रभुः
श्रीकृष्णो भगवान्नास्ते किं तस्य गुणवर्णनम् ॥ १४० ॥
मूर्तिमान् शङ्करः सोऽथ ध्वजस्तम्भेऽस्य मारुतिः
सारथिः शार्ङ्गधन्वाऽभूत्साक्षात्कृष्णोऽर्जुनस्य हि ॥ १४१ ॥
अद्भुतं प्रेम भक्तेषु पश्य चित्रमिदं प्रभोः
यत्स्वयं कुरुते विष्णुः पार्थसारथ्यकर्म च ॥ १४२ ॥
सेवकं पृष्ठतः कृत्वा पुरतः स्वयमास्थितः
प्रदध्मौ भगवानित्थं पाञ्चजन्यं स लीलया ॥ १४३ ॥
महाघोषस्तु गम्भीरो गर्जन्नित्यं तदा ह्यभूत्
जाते सूर्योदये यद्वन्नक्षत्राणामदर्शनम् ॥ १४४ ॥
तथा कौरवसेनायां रणभेर्यादिकध्वनिः
न ज्ञायते हि तद्वार्ता क्व गतः कुत्र तिष्ठति ॥ १४५ ॥
तथैव च धनुर्धारी प्रदध्मौ शङ्खमुत्तमम्
देवदत्तेति नामानं निनादेन समन्वितम् ॥ १४६ ॥
तच्छब्दद्वयसंयोगादद्भुतो ध्वनिः निसृतो
ब्रह्माण्डाख्य कटाहो तु विदीर्णः शतधा तदा ॥ १४७ ॥
महाकाल इव क्षुब्ध ह्यावेशेन समन्वितः
दध्मौ पौण्ड्रं महाशङ्खं भीमसेनस्तु तत्क्षणे ॥ १४८ ॥
महाप्रलयमेधस्य गम्भीरध्वनिना समम्
अनन्तविजयं शङ्खं दध्मौ राजा युधिष्ठिरः ॥ १४९ ॥
तौ तदा दध्मतुः शङ्खौ सुघोषमणिपुष्पकौ
नकुलः सहदेवश्च नादभीतः स्थितोऽन्तकः ॥ १५० ॥
काश्यश्च परमेष्वास: शिखण्डी च महारथः
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १७ ॥
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते
सौभद्रस्य महाबाहुः शङ्खान्दध्मु पृथक्पृथक् ॥ १८ ॥
स घोषो धार्तराष्ट्रानां हृदयानि व्यदारयत्
नभस्य पृथिवी चैव तुमुलो व्यनुनादयत् ॥ १९ ॥
तत्र भूपतयोऽनेके महाबाहुरच काशिजः
द्रुपदो द्रौपदेयाश्च वीरास्सन्ति च मीलिताः ॥ १५१ ॥
अर्जुनस्य सुतस्तत्र सात्यकिश्चापराजितः
धृष्टद्युम्नो नृपश्रेष्टः शिखण्ड्यादि महारथाः ॥ १५२ ॥
वीरमुख्यविराटादि भूपा ये सैन्यनायकाः
ते च दध्मुः पृथक्शङ्खान्नानानाम्नो निरन्तरम् ॥ १५३ ॥
महाघोषनिनादेन सहसैव भयाकुलौ
शेषकूर्मौ च सन्त्रस्तौ भूभारत्यागिनाविव ॥ १५४ ॥
त्रैलोक्यं कम्पितं मेरुमन्दारौश्चलितौ तदा
तथा कैलासपर्यन्तमुल्लोलं सागरोदकम् ॥ १५५ ॥
पृथ्वीतलं विपर्यस्तमाकाशस्त्रुटीतस्तदा
तदानीं तत्र सञ्जातं नक्षत्राणां प्रधर्षणम् ॥ १५६ ॥
गता रेऽद्य गता सृष्टिर्देवा जाता निराश्रयाः
एवं तालरवैरेका सत्यलोकेऽभवत्कथा ॥ १५७ ॥
यथा प्रलयकाले तु स्तब्धो दिनकरो दिने
हाहाकारस्त्रिलोक्यां च तथा तात्राऽभ्यजायत ॥ १५८ ॥
तं दृष्ट्वा ह्यादिपुरुषो विस्मितोऽद्भुतसम्भ्रमम्
जगन्नश्येदिति पुनर्लोपयामास तं ध्वनिम् ॥ १५९ ॥
कृष्णादीनां महाशङ्खध्वनिना विश्वसंक्षयम्
प्रलयान्तमिवापन्नं तस्मादुज्जीवनं कृतम् ॥ १६० ॥
तदा कौरवसैन्यस्य हाहाकारोऽभवत्किल ॥ १६१ ॥
वने गजसमूहस्य यथा सिंहो विदारणम्
हृदयं कौरवाणां तु स बिभेद प्रतिध्वनिः ॥ १६२ ॥
श्रुत्वा प्रतिध्वनिं तत्र स्थिता एव पतन्त्यधः
ब्रुवन्ति कतिचिच्छूराः सावधाना भवन्त्विति ॥ १६३ ॥
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ २० ॥
तत्र ये च बलाढ्याः स्युर्पुरुषार्थेन संयुताः
महारथाश्च वीराश्च पुनर्बलमरोधयन् ॥ १६४ ॥
सज्जीभूत्य पुरस्तात्तु बलमावेगतः पुनः ।
वीरावेशेन सेनायाः क्षुब्धं त्रिभुवनं तदा ॥ १६५ ॥
तथैव बाणजालानि प्रवर्षन्ति धनुर्धराः
प्रलयान्ते जलधरा प्रमुञ्चति जलं यथा ॥ १६६ ॥
इदं दृष्ट्वाऽर्जुनस्तेन जातो सन्तुष्टमानसः ।
ददर्श सम्भ्रमेणैव पुनः सेनामतीव सः ॥ १६७ ॥
सङ्ग्रामे सज्जमानान्सः दृष्ट्वा सर्वान्कुरून्स्तदा
पण्डुपुत्रोऽकरोत्सज्जं सहजं लीलया धनुः ॥ १६८ ॥
हृषीकेशं तदा वाक्यमिदमाह महीपते
अर्जुन उवाच -
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥
यावदेतानिरीक्षेऽहं योद्धुकामानवस्थितान्
कैर्मयासह योद्धव्यमस्मिन् रणसमुद्यमे ॥ २२ ॥
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागत:
धार्तराष्ट्रस्य दुर्बुद्धेयुद्धे प्रियचिकीर्षव: ॥ २३ ॥
उवाच चार्जुनस्तीव्र रथं स्थापय मेऽच्युत
सेनयोरुभयोर्मध्ये नीत्वा वेगेन सत्वरम् ॥ १६९ ॥
रथस्य सर्वतो वीरान्क्षणं पश्यामि सैनिकान्
सङ्ग्रामे वर्तमानान्युद्धकामानवस्थितान् ॥ १७० ॥
उपमितैश्च वीरैश्च योद्धव्यं कैर्मयासह
एतद् द्रष्टुं समग्रेण तिष्ठामि समराङ्गणे ॥ १७१ ॥
प्रायशः कौरवाः सर्वे ह्यातुरा दुष्टबुद्धयः
पराक्रमेण हीनापि विकाङ्क्षन्ते रणस्थिताः ॥ १७२ ॥
युद्धाय लोलुपास्ते तु न तेषां रणधीरता
इत्युक्त्वा सञ्जयो धीरान्राजानं पुनरब्रवीत् ॥ १७३ ॥
सञ्जय उवाच -
एवमुक्तो हृषीकेशो गुडाकेशेन भारत
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ २५ ॥
तत्रापश्यस्थितान्पार्थः पितृनथ पितामहान्
आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा ॥ २६ ॥
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ २७ ॥
निशम्यार्जुन वाक्यं स रथमास्थाय सत्वरम्
श्रीकृष्णः सेनयोर्मध्ये स्थापयामास लीलया ॥ १७४ ॥
रथे तत्र स्थिरे जाते ददर्श पुनरर्जुनः
समग्रं तद्बलं पश्यन्सम्भ्रमेण समन्वितः ॥ १७५ ॥
बहवः सन्ति राजानो भीष्मद्रोणादयस्तथा
तत्समीपं समागत्य दृष्टुमिच्छामि तान्पुरः ॥ १७६ ॥
प्रेक्षतां प्रेक्षतां देव स्वगोत्रगुरुबान्धवान्
तच्छ्रुत्वा भगवान्कृष्णः क्षणं विस्मितमानसः ॥ १७७ ॥
अर्जुनस्य मनस्यन्तः किमभूदित्यचिन्तयत्
इत्थं विचिन्त्य श्रीकृष्णः किमाश्चर्यमिदं भवेत् ॥ १७८ ॥
हृत्स्थं सलीलया वेत्ति भविष्यं च तथैव हि
अनुक्त्वा वचनं किञ्चित्तूष्णीमेव स्थितस्तदा ॥ १७९ ॥
पार्थोऽपश्यस्थितान्तत्र गुरून्पितृपितामहान्
मातुलान्श्वशुरान्बन्धुन्शिष्यान्भ्रातॄन्सखीनपि ॥ १८० ॥
स्वीयानि चेष्टमित्राणि कुमारान् सर्वमैक्षत
ददर्श सकलं सर्वमर्जुनस्तत्र सङ्कुलम् ॥ १८१ ॥
श्वशुरान्सुहृदश्चैव पुत्रपौत्रसखीन्स्तदा
स ददर्श धनुर्धारी मिलितान्तत्र संस्थितान् ॥ १८२ ॥
उपकारकृते ये तु तथा ह्यापदिरक्षकाः
ते सर्वे बालवृद्धाश्च समवैक्षत तांस्तदा ॥ १८३ ॥
तथैव गोत्रजान्सर्वान् सैन्यद्वयसमागतान्
तस्मिन्नु काले सन्नद्धान्युद्धार्थं व्यलोकयत् ॥ १८४ ॥
व्याकुलाभून्मनोवृत्तिः सहसैवा गता कृपा
पार्थस्य वीरवृत्तिः सा गता तेनावमानिता ॥ १८५ ॥
कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत् ॥ २८.१ ॥
गुणलावण्यसंपन्ना कुलीना याऽबला तथा
स्वतेजसा परस्त्रीणां सहते नैव वर्चसम् ॥ १८६ ॥
विस्मृत्य वनितां कान्तां नवस्त्रीप्रेमनिर्भरः
कामुको भ्रान्तिमापन्नस्तामेवानुचरत्यहो ॥ १८७ ॥
ऋद्धिसिद्धी वशीकृत्य तपोयोगबलेन तु
विरागी नैव वैराग्यं बुद्धिभ्रंशात्स्मरत्यहो ॥ १८८ ॥
तथाभूदर्जुनस्यान्तःकरणं हि कृपावशात्
विद्यमानं हि पौरुष्यं गतमासीच्च तत्क्षणे ॥ १८९ ॥
पश्य मन्त्रप्रमादेन मान्त्रिकस्य यथा भ्रमः
तथा भीतो धनुर्धारी महामोहेन व्याकुलः ॥ १९०॥
तस्माद्गलितं धैर्यं च हृदयं चार्द्रतां गतम्
यथा चन्द्रकरस्पर्शात्सोमकान्तमणेर्द्रवः ॥ १९१ ॥
तथैव पार्थः स्नेहन मोहितः खिन्नमानसः
खेदयुक्तेन वचसा ह्यब्रवीदच्युतं प्रति ॥ १९२ ॥
अर्जुन उवाच
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ २८ ॥
सीदन्ति मम गात्राणि मुखं च परिशुष्यति
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २९ ॥
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ ३० ॥
स उवाच तदा देवमवधारय मद्वचः नेत्
राभ्यां मम सेनायां गोत्रवर्गः प्रदृश्यते ॥ १९३ ॥
सर्वे युद्धाय संन्नद्धाः मिलिताश्च परस्परम्
तथापि तैर्मया सार्धं युद्धं कथमिहोचितम् ॥ १९४ ॥
एभिः साकं च युद्धस्व वार्तायां दूयते मनः
मनोबुध्योर्हि स्थिरता मम नाशमुपागता ॥ १९५ ॥
पश्य मे कम्पते देहो मुखं च परिशुष्यति
तथैव सर्वगात्राणि विकलानि भवन्ति हि ॥ १९६ ॥
कण्टकेन च संयुक्तं सर्वाङ्गं शुष्कमाननम्
हस्तात्खस्तं च गाण्डीवमतिसन्तापमूलतः ॥ १९७ ॥
न जानेदं कदा खस्तं पतितं नु कथं करात्
एवं मे हृदयं व्याप्तं मोहेन च बलीयसा ॥ १९८ ॥
वज्रादपि कठोरं मे दुर्धरं चातिदारुणः
तस्मादपि सुघोरोऽयं चित्तं स्नेहोऽभ्यजायत ॥ १९९ ॥
युद्धे हरो जितो येन निवातकवचाः हताः
अर्जुनस्तु स मोहेन ग्रस्तोऽभूत्क्षणमात्रतः ॥ २०० ॥
भिनत्ति च यथाकारं भ्रमरः शुष्कमेव च
स एव कोमले सक्तः कमले लग्नतां गतः ॥ २०१ ॥
तत्रैव सन्त्यजेत्प्राणान्न दलं दारयेत्तदा
तथैव ममताप्तानां कठिणत्वाय कल्पते ॥ २०२ ॥
उवाच सञ्जयो भूपं मायेयं पारमेश्वरी
अनावरापि ब्रह्माणं यथा संमोहितोऽर्जुनः ॥ २०३ ॥
स्वजनं सकलं दृष्ट्वा ह्यवधार्य पुनः पुनः
साङ्ग्रामीणं चाभिमानं व्यस्मरदर्जुनः स्वयम् ॥ २०४ ॥
न जाने कथमुत्पन्ना हृदयेऽस्य दया त्विति
स उवाच पुनः कृष्णं स्थितिर्मेऽत्र न रोचते ॥ २०५ ॥
सर्वेप्येते हि हन्तव्या इत्येव मानसे कृते
अतीव व्याकुलं चेतः भ्रमतीव वाग्भ्रमात् ॥ २०६ ॥
निमित्तानि च पश्यामि विपरीतानि केशव
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ ३१ ॥
कौरवा यदि वा वध्याः किं नु वध्या हि भ्रातरः
युधिष्ठिरादयस्तस्माद्गोत्रजान्न हिनोम्यहम् ॥ २०७ ॥
युद्धाख्यं कार्यमेतच्च दग्धं भवतु वन्हिना
महापापं हि कृत्वैवं किमेतेन प्रयोजनम् ॥ २०८ ॥
विचार्य बहुतो ह्येवं युद्धकार्याच्च दुर्गतिः
परित्यागेन युद्धस्य देव लाभो भवेध्रुवम् ॥ २०९ ॥
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ ३२ ॥
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च
तै इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ ३३ ॥
आचार्याः पितरः पुत्रास्तथैव च पितामहाः
मातुलाः श्वशुराः पौत्राः श्यालाःसम्बधिनस्तथा ॥ ३४ ॥
तथा विजयमासाद्य किं कार्यं तेन हि प्रभो
एतादृशेन राज्येन पश्यतः किं प्रयोजनम् ॥ २१० ॥
एवं तान्सकलान्हत्वा भुजेयान्विषयानहं
दग्धं भवतु तत्सर्वमिति पार्थ उवाच सः ॥ २११ ॥
तत्सुखं च परित्यज्य सहे क्लेशपरम्पराम्
तदर्थं प्राणसन्त्यागं कुर्वतो नास्ति मे व्यथा ॥ २१२ ॥
एतेषां घातमार्गेण राज्यभोगसुखानि च
उपभोक्तुं च नेच्छामि स्वप्नेऽपि मनसा सह ॥ २१३ ॥
किं फलं जन्मग्रहणे जीवने चापि किं तथा
पितॄणां यद्यनौचित्यं कृतं केनापि कर्मणा ॥ २१४ ॥
सत्पुत्रमिच्छति कुलं किमेवेदं च तत्फलम्
तेनैव कुलनाशश्चेत्तदिच्छा च वृथा भवेत् ॥ २१५ ॥
तेषु एवं कठोरं तु वज्रवच्च मनो मम
कथं भवेदिति यथा कल्याणं तु तथा चरेत् ॥ २१६ ॥
यद्यत्सम्पन्नमस्माकं तद्भोक्तव्यं च तैरिह
तेषामेवोपकारार्थं जीवनं ध्रियते भया ॥ २१७ ॥
कुलं सन्तोषयेत्स्वीयं यशसा भूरि कर्मणा ॥ २१८ ॥
ते सर्वे गोत्रजाः प्राप्ताः ह्यस्माभिर्योद्धुमेव च
कथं कर्मगतियासीद्विपरीतप्रवर्तका ॥ २१९ ॥
स्त्रीणां तथा च पुत्राणां भूषणानां च सर्वशः
त्यागं कृत्वेह तिष्ठन्ति शस्त्राग्रे कृतजीवनाः ॥ २२० ॥
हनिष्यामि कथं चेतान्तेषु वा शस्त्रधारणम्
करिष्ये नु कथं हन्तुं निजांश्च सुहृदस्स्वयम् ॥ २२१ ॥
किन्न जानामि के त्वेते भीष्मद्रोणै पुरस्थितौ
उपकारस्तु येषां नो बह्वसाधारणः कृतः ॥ २२२ ॥
शालकाः श्वशुराश्चैव मातुलाः बन्धवस्तथा
आप्तेष्टपुत्रपौत्राश्च तिष्ठन्तीह च सर्वशः ॥ २२३ ॥
अतिसंन्निहितास्त्वेते स्वकीयाः सकला मम
तेषां संहारवार्तापि पश्य दोषाय जायते ॥ २२४ ॥
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन
अपि त्रैलोक्यराजस्य हेतोः किं नु महीकृते ॥ ३५ ॥
यथेष्टं तेऽपि कुर्वन्तु घ्नन्तु वास्मानिहाधुना
तथापि मनसा तेषां घातं नैवावचिन्तयम् ॥ २२५ ॥
त्रैलोकस्यापि राजस्य हेतोर्निष्कण्टकस्य च
एतदनुचितमिदं कर्म न करोमि च सर्वथा ॥२२६ ॥
यदि कुर्यामिदं कर्म मनसा को नु मानयेत्
वद कृष्ण मुखं दृष्टुमुत्सहेत मनो मम ॥ २२७ ॥
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ ३६ ॥
गोत्रजानां वधं कृत्वा दोषागारं भवाम्यहम्
दूरी भवसि तेन त्वं मद्हस्तात्साधितो मया । ।२२८ ॥
पातकानि ह्यनन्तानि प्रपद्यन्ते कुलक्षये
तदानीं केन वा कार्यं कुत्र वा शोधनं तव ॥ २२९ ॥
उद्याने प्रबलं दृष्ट्वा सञ्चरन्तं यथानलम्
कोकिला न च तिष्ठन्ति क्षणमात्रं हि सर्वथा ॥ २३० ॥
दृष्ट्वा सरोवरं किं नु कर्दमेन समन्वितम्
चकोरा न च सेवन्ते त्यक्त्वा गच्छन्ति दूरतः ॥ २३१ ॥
तथा त्वं देव मायाया वशं मां न करुन्विति
विनश्येत यदा पुण्यजलराशिर्ममैव तु ॥ २३२ ॥
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान्
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३७ ॥
तस्मान्नाहं करोम्येतत्सङ्ग्रामे शस्त्रधारणाम्
इदं बहुतरं निन्द्यं मन्ये कर्म च सर्वथा ॥ २३३ ॥
त्वदन्तराये सम्प्राप्ते का भविष्यति मे गतिः
विदीर्णं हृदयं कृष्ण दुःखेनैतादृशेन तु ॥ २३४ ॥
कौरवाणां वधं कृत्वा राज्यं भुञ्जेततः परम्
न कदापि भवेदेतदित्थमाहार्जुनः स्वयम् ॥ २३५ ॥
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्
कुलक्षयंकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३९ ॥
अभिमानमदोन्मत्ता युद्धाय समुपागता
यदि ते कौरवाः सन्ति किं न जानीम नो हितं ॥ २३६ ॥
ज्ञात्वा ज्ञात्वा कालकूटं मनुजः सेवेत कथम्
इदमेवं कथं कुर्यात्स्वकीयहननं स्वयम् ॥ २३७ ॥
मार्गेण गच्छतः पुंसः सिंहोऽस्ति यदि सन्मुखः
तत्पथं हि परित्यज्य लाभोऽन्यगमने स्मृतः ॥ २३८ ॥
प्रकाशे वर्तमानः सनन्धकूपं समाश्रयेत्
को वा लाभो भवेत्तत्र वद त्वं देव तस्य तु ॥ २३९ ॥
दृष्ट्वाग्निं सन्मुखं दीप्तं यदि दूरं न गच्छति
तज्ज्वालाभिः क्षणेनैव भस्मीभवति हि ध्रुवम् ॥ २४० ॥
इमे दोषा मूर्तिमन्तः प्रपद्यन्ते हि सर्वशः
एतद्ज्ञात्वापि हि मया कथं युद्धप्रवर्तनम् ॥ २४१ ॥
इति कृष्णं समाभाष्य पार्थस्तु पुनरब्रवीत्
युद्धस्य कर्मणो देव पश्य पातकगौरवम् ॥ २४२ ॥
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ४० ॥
यथा हि काष्ठमथनाद्वन्हिरुत्पद्यते किल
तस्य प्रज्वलनेन काष्ठं भवति भस्मसात् ॥ २४३ ॥
तथा परस्परं गोत्रे मत्सराक्रियते वधः
तन्महाघोरदोषेण कुलस्यैव क्षयो भवेत् ॥ २४४ ॥
तेन पापेन लुप्तस्तु कुलधर्मो भवत्युत
कुलधर्मनाशाच्च अधर्मोऽभिभवेत्कुलम् ॥ २४५ ॥
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ ४१ ॥
सारासारविचारस्तु कार्याकार्य विचारणा
पुनर्विधिनिषेधाश्च प्रणश्यन्ति कुलक्षये ॥ २४६ ॥
प्रशाम्य सुस्थिरं दीपमन्धकारे भ्रमन्नरः
सहजं प्रपतत्येव ह्युदारान्मार्गतोऽपि हि ॥ २४७ ॥
तथा कुलक्षये जाते त्वार्यधर्मः प्रणश्यति
धर्मे नष्टे पुनः पापं विना कार्यं न विद्यते ॥ २४८ ॥
अनिग्रहे यमानां च नियमानां तथैव च
व्यभिचाराः कुलस्त्रीणामिन्द्रियस्वैरवर्तनात् ॥ २४९ ॥
उत्तमाधमवर्णानां मेलनं भवति ह्यतः
जातिधर्मकुलाचारः समूलं हि प्रणश्यति ॥ २५० ॥
यथा काका बलिं क्षिप्तं प्रतिगृण्हन्ति सर्वशः
तथा कुले महत्पापं परितः सञ्चरत्युत ॥ २५१ ॥
सङ्करो नरकायैव कुलघ्नानां कुलस्य च
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रिया ॥ ४२ ॥
तेन सर्वकुलस्यैव कुलानां घातकस्य तु
उभयोर्नरके वासो भविष्यन्ति न संशयः ॥ २५२ ॥
समस्तवंशवृद्धिस्तु पतिता तदनन्तरम्
स्वर्गस्थ पितरः सर्वे पतन्ति स्वयमेव तु ॥ २५३ ॥
तत्र नित्यानि कर्माणि तथा नैमित्तिकानि च
न भवन्ति कुले तस्मिन् को नु दद्यात्तिलोदकम् ॥ २५४ ॥
तथाभूते हि पितरः किं कुर्युः स्वर्गता अपि ।
स्वर्गे वासः कथं तेषां पुनरायान्ति तत्कुलम् ॥ २५५ ॥
नखाग्रे व्यालसन्दंशो यथा व्याप्य शिखामणि
कुलक्षयकृतो दोषस्तिष्टत्यामूलमेव च ॥ २५६ ॥
दोषेरेतैः कुलघ्नानां वर्णसङ्करकारकैः
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४३ ॥
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ४ ॥
अहो बत महत्पापं कर्तुं व्यवसिता वयम्
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४५ ॥
अवधारय कृष्ण त्वं महापातकमेव तत्
लोकाचारप्रवृत्तिस्तु सङ्गदोषाच्च नश्यति ॥ २५७ ॥
आत्मगेहे विलीनोऽग्निरकस्मादुक्षितो यथा
गृहभागान् तथा सर्वानन्यान् दहति ज्वालया ॥२५८ ॥
तथा तत्कुलसङ्गो हि बाधते तांश्च सर्वशः
यो यो कुलक्षयकृताः पुरुषस्य वशेऽस्ति हि ॥ २५९ ॥
नानादोषप्रसङ्गेन तथा सर्वकुलं मम
महाघोरं हि नरकं भुञ्ज्यादेवार्जुनोऽब्रवीत् ॥ २६० ॥
पतिते नरके तस्मात्कल्पेनापि न मुच्यते
एवं कुलक्षये जाते भवतीत्यवदत्पुनः ॥ २६१ ॥
श्रुत्वापि विविधं देव त्रासो नाद्यापि जायते
वज्रस्येव कठोरं मे किमर्थं हृदयं कृतम् ॥ २६२ ॥
इच्छां राज्यसुखे कृत्वा हत्वा बन्धूंश्च सर्वशः
तत्सुखं क्षणिकं ज्ञात्वा किं नु त्याज्यः कुलक्षयः ॥ २६३ ॥
एषां पितॄणां नाशार्थमस्मदृष्टिर्निपतिता
किमिदं पातकं जातमस्माकं वद केशव ॥ २६४ ॥
यदि मामप्रतिकारमशस्त्रं शस्त्रपाणयः
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४६ ॥
इति कृत्वा जीवनाच्च वरं कर्तुमिदं मम
शस्त्राण्युत्सृज्य तेषां मे बाणानां सहनं वरं ॥ २६५ ॥
तेन यद्यपि सम्प्राप्तं मरणं मे वरं ततः
किं तु नेच्छामि तत्कर्तुं पापं च वधकर्मणा ॥ २६६ ॥
दृष्ट्वेवं सकलं ह्यात्मकुलं चोवाच सोऽर्जुन:
राज्यभोगो हि नरकसमान इति मे मतिः ॥ २६७ ॥
सञ्जय उवाच
एवमुक्त्वार्जुन: सङ्ख्ये रथोपस्थ उपाविशत्
विसृज्य सशरं चापं शोकसंविग्नमानस: ॥ ४७ ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः
सञ्जय उवाच -
इत्यब्रवीत्तदा राजन्नर्जुनः समराङ्गणे
श्रुणु भो धृतराष्ट्र त्वमित्युवाच स सञ्जयः ॥ २६८ ॥
अत्युद्वेगसमापन्नोऽनिरुद्धस्पन्दनाकुलः
तद्रथात्स समुत्पात्य तस्य पार्श्वे निवेश सः ॥ २६९ ॥
पदाच्च्युतो राजपुत्रो मानहीनश्च सर्वथा
सूर्यो हि राहुणा ग्रस्तो प्रभाहीनो यथा तथा ॥ २७० ॥
तपस्वी भ्रान्तिमापन्नो महासिद्धिप्रभावतः ।
निषिद्धकामनायुक्तो निन्द्यो भवति वै तथा ॥ २७१ ॥
तथैव स धनुर्धारी दुःखेनात्यन्तजर्जरः
अवतीर्य रथात्तूर्णं हृष्टोऽभूदर्जुनस्तदा ॥ २७२ ॥
धनुर्बाणं च सन्त्यज्य चाश्रुपातं चकार सः ।
एवं श्रुणु महाराज इत्युवाच स सञ्जयः ॥ २७३ ॥
ततो वैकुण्ठ नाथस्तु पार्थं दृष्ट्वा समाकुलम्
कथं वाहं करिष्यामि परमार्थस्य बोधनम् ॥ २७४॥
तामग्रे कथनीयां तु विस्तरां श्रुणु कौतुकात्
इति निवृत्तिदासोऽयं ज्ञानदेवो वदिष्यामि ॥ २७५ ॥
इति ज्ञानदेवविरचितायां भावार्थदीपिकायां
अनन्तनिरुपणे प्रथमोऽध्यायः श्लोक ४७ नवश्लोकाः २७५

Comments
Post a Comment